|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.51. अध्यायः 051
Mahabharata - Adi Parva - Chapter Topics
जनमेजयस्य सर्पसत्रप्रतिज्ञा॥ 1 ॥ यज्ञसामग्रीसंपादनम्॥ 2 ॥ दीक्षाग्रहणम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-51-0x(248)(2155)
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः॥ 1-51-1(2156)
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः॥ 1-51-2(2157)
अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः।
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्॥ 1-51-3(2158)
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे।
अपि तत्कर्म विदितं भवतां येन पन्नगम्॥ 1-51-4(2159)
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना॥
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्॥ 1-51-5(2160)
ऋत्विज ऊचुः। 1-51-6x(249)
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम्।
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते॥ 1-51-6(2161)
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप।
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः॥ 1-51-7(2162)
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्।
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम॥ 1-51-8(2163)
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा।
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे॥ 1-51-9(2164)
सौतिरुवाच। 1-51-10x(250)
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम।
तं देशं मापयामासुर्यज्ञायतनकारणात्॥ 1-51-10(2165)
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः।
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्॥ 1-51-11(2166)
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्।
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्॥ 1-51-12(2167)
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा।
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति॥ 1-51-13(2168)
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा।
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्॥ 1-51-14(2169)
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा॥ 1-51-15(2170)
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता।
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः॥ 1-51-16(2171)
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति॥ ॥ 1-51-17(2172)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः॥ 51 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-51-5 मह्यं मम॥ 1-51-7 त्वत् त्वत्तो नान्योस्ति॥ 1-51-9 आहरिष्यामि करिष्यामि। संभ्रियन्तु संभ्रियन्ताम्॥ 1-51-13 भविष्यति भाविनि॥ 1-51-15 सूतो जात्या पौराणिकः शिल्पागमवेत्ता॥ 1-51-16 नायं संस्थास्यते न समाप्स्यते॥ 1-51-17 दीक्षाकालस्य प्रागिति प्राग्दी क्षाकालं क्षत्तारं द्वास्थम्॥ एकपञ्चाशत्तमोऽध्यायः॥ 51 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|